| YouTube Channel

अक्षेत्रवित् अक्षेत्री (akSetravit akSetrI)

 
E Bharati Sampat
Sanskrit
(वि) (क्षेत्रविद्)। क्षेत्रं देहतत्त्वं तत्वतः वेत्ति जानाति न+क्षेत्र+विद(ज्ञाने)+क्विप् क्षेत्रतत्वानभिज्ञः, आत्मत्वेन देहाभिमानी जीवः। ‘अक्षेत्रविद् क्ष्रेत्रमिदं ह्यप्राट् प्रैति’ ऋक् (वि) (अक्षेत्रिन्)। क्षेत्रं सस्योत्पत्तिस्थानं कलत्रं वा अस्ति अस्य क्षेत्र+इनिः। क्षेत्री १.भूरहित:। २.पत्नीरहितः। ‘येऽक्षेत्रिणो बीजवन्त: परक्षेत्रे प्रवापिन:’ स्मृति:।